दीर्घात् छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्नदीर्घो न भवति। मारुतीश्चतस्रः पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। वाराही। उपानही। वाराह्यौ। उपानह्यौ।
"मारुतीः" इति। मरुद्()देवता आसामिति "सास्य देवता" (४।२।
२४) इत्यण्? "टिड्ढाणञ्()"
४।१।१५ इति ङीप्(); सवर्णदीर्घत्वम्()। "वाराहीः" [वाराही--काशिका पदमंजरी च] इति। वराहस्य विकार ति "अवयवे च प्राण्योषधिवृक्षेभ्यः"
४।३।१३३ इत्यण्(), पूर्ववन्ङीप्()। "उपानही" इति। "षिद्गौरादिभ्यश्च"
४।१।४१ इति ङीष्()॥